Manglastak Stotra (श्री मंगलाष्टक स्तोत्र)अर्हन्तो भगवत इन्द्रमहिताः, सिद्धाश्च सिद्धीश्वरा,
आचार्याः जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः| श्रीसिद्धान्तसुपाठकाः, मुनिवरा रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु नः मंगलम्|| 1 श्रीमन्नम्र - सुरासुरेन्द्र - मुकुट - प्रद्योत - रत्नप्रभा- भास्वत्पादनखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः| ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठकाः साधवः स्तुत्या योगीजनैश्च पञ्चगुरवः कुर्वन्तु नः मंगलम्|| 2 सम्यग्दर्शन-बोध-व्रत्तममलं, रत्नत्रयं पावनं, मुक्ति श्रीनगराधिनाथ - जिनपत्युक्तोऽपवर्गप्रदः| धर्म सूक्तिसुधा च चैत्यमखिलं, चैत्यालयं श्रयालयं, प्रोक्तं च त्रिविधं चतुर्विधममी, कुर्वन्तु नः मंगलम्|| 3 नाभेयादिजिनाः प्रशस्त-वदनाः ख्याताश्चतुर्विंशतिः, श्रीमन्तो भरतेश्वर-प्रभृतयो ये चक्रिणो द्वादश| ये विष्णु-प्रतिविष्णु-लांगलधराः सप्तोत्तराविंशतिः, त्रैकाल्ये प्रथितास्त्रिषष्टि-पुरुषाः कुर्वन्तु नः मंगलम्|| 4 ये सर्वौषध-ऋद्धयः सुतपसो वृद्धिंगताः पञ्च ये, ये चाष्टाँग-महानिमित्तकुशलाः येऽष्टाविधाश्चारणाः| पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिऋद्धिश्वराः, सप्तैते सकलार्चिता मुनिवराः कुर्वन्तु नः मंगलम्|| 5 ज्योतिर्व्यन्तर-भावनामरग्रहे मेरौ कुलाद्रौ स्थिताः, जम्बूशाल्मलि-चैत्य-शखिषु तथा वक्षार-रुप्याद्रिषु| इक्ष्वाकार-गिरौ च कुण्डलादि द्वीपे च नन्दीश्वरे, शैले ये मनुजोत्तरे जिन-ग्रहाः कुर्वन्तु नः मंगलम्|| 6 कैलाशे वृषभस्य निर्व्रतिमही वीरस्य पावापुरे| चम्पायां वसुपूज्यसुज्जिनपतेः सम्मेदशैलेऽर्हताम्| शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतः, निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु नः मंगलम्|| 7 यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो, यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक्| यः कैवल्यपुर-प्रवेश-महिमा सम्पदितः स्वर्गिभिः कल्याणानि च तानि पंच सततं कुर्वन्तु नः मंगलम्|| 8 सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते, सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुः| देवाः यान्ति वशं प्रसन्नमनसः किं वा बहु ब्रूमहे, धर्मादेव नभोऽपि वर्षति नगैः कुर्वन्तु नः मंगलम्|| 9 इत्थं श्रीजिन-मंगलाष्टकमिदं सौभाग्य-सम्पत्करम्, कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणामुषः| ये श्र्रण्वन्ति पठन्ति तैश्च सुजनैः धर्मार्थ-कामाविन्ताः, लक्ष्मीराश्रयते व्यपाय-रहिता निर्वाण-लक्ष्मीरपि|| 10 |
Drastastak Stotram (द्दष्टाष्टकस्तोत्रम्)द्दष्टं जिनेन्द्रभवनं भवतापहारि
भव्यात्मनां विभव-संभव-भूरिहेतु| दुग्धाब्धि-फेन-धवलोज्जल-कूटकोटी- नद्ध-ध्वज-प्रकर-राजि-विराजमानम्|1| द्दष्टं जिनेन्द्रभवनं भुवनैकलक्ष्मी- धामर्द्धिवर्द्धित-महामुनि-सेव्यमानम्| विद्याधरामर-वधूजन-मुक्तदिव्य- पुष्पाज्जलि-प्रकर-शोभित-भूमिभागम्|2| द्दष्टं जिनेन्द्रभवनं भवनादिवास- विख्यात-नाक-गणिका-गण-गीयमानम्| नानामणि-प्रचय-भासुर-रश्मिजाल- व्यालीढ-निर्मल-विशाल-गवाक्षजालम्|3| द्दष्टं जिनेन्द्रभवनं सुर-सिद्ध-यज्ञ- गन्धर्व-किन्नर-करार्पित-वेणु-वीणा| संगीत-मिश्रित-नमस्कृत-धारनादै- रापूरिताम्बर-तलोरु-दिगन्तरालम्|4| द्दष्टं जिनेन्द्रभवनं विलसद्विलोल- मालाकुलालि-ललितालक-विभ्रमाणम्| माधुर्यवाद्य-लय-नृत्य-विलासिनीनां लीला-चलद्वलय-नूपुर-नाद-रम्यम्|5| द्दष्टं जिनेन्द्रभवनं मणि-रत्न-हेम- सारोज्ज्वलैः कलश-चामर-दर्पणाद्यैः| सन्मंगलैः सततमष्टशत-प्रभेदै- र्विभ्राजितं विमल-मौक्तिक-दामशोभम्|6| द्दष्टं जिनेन्द्रभवनं वरदेवदारु- कर्पूर-चन्दन-तरुष्क-सुगन्धिधूपैः| मेघायमानगगने पवनाभिवात- चञ्चच्चलद्विमल-केतन-तुंग-शालम्|7| द्दष्टं जिनेन्द्रभवनं धवलातपत्र- च्छाया-निमग्न-तनु-यक्षकुमार-वृन्दैः| दोधूयमान-सित-चामर-पंक्तिभासं भामण्डल-द्युतियुत-प्रतिमाभिरामम्|8| द्दष्टं जिनेन्द्रभवनं विविधप्रकार- पुष्पोपहार-रमणीय-सुरत्नभूमिः| नित्यं वसन्ततिलकश्रियमादधानं सन्मंगलं सकल-चन्द्रमुनीन्द्र-वन्द्यम्|9| द्दष्टं मयाद्य मणि-काञ्चन-चित्र-तुंग- सिंहासनादि-जिनबिम्ब-विभूतियुक्तम्| चैत्यालयं यदतुलं परिकीर्तितं मे सन्मंगलं सकल-चन्द्रमुनीन्द्र-वन्द्यम्|10| |